मासाद् वयसि ति वर्तते। मासान्ताद् द्विगोर् यप् प्रत्ययो भवति वयस्यभिधेये। द्वौमासौ भूतः द्विमास्यः। त्रिमास्यः।
"प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि" इति (काशिका। ५।१।२०) तदन्तविदेरभ्यनुज्ञानाद्()द्विगोरपि ----। ययः पित्करणननुदात्तार्थम्()।
अन्यथा मासशब्दान्तात्? प्रत्यये विहिते सिति शिष्टत्वात्? "इगन्तकाल" (६।२।
२९) इति द्विगावेवेति स्वरबाधनात्? प्रत्ययस्वरः स्यात्(), ---- स्यात्()। प्रत्ययेऽनुदात्तार्थे पिति "इगन्त"
६।२।२९ इति पूर्वपदप्रकृतिस्वरः सिद्धो भवति॥
द्विगोर्यप्। प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। पित्त्वादनुदात्तःष। तेन "द्विमासः"इत्यादौ "इदन्तकाले"त्यादिना पूर्वपदप्रकृतिस्वरोऽवतिष्ठते। "यः"इत्युक्ते तु प्रत्ययस्योदात्तत्वादन्तोदात्तो द्विमासः स्यात्, सति शिष्टस्वरबलीयस्त्वादिति भावः।